||Sundarakanda ||

|| Sarga 36||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुंदरकांड.
अथ षट्र्त्रिंशस्सर्गः

भूय एव महातेजा हनुमान् मारुतात्मजः।
अब्रवीत् प्रश्रितं वाक्यं सीता प्रत्ययकारणात्॥1||

स॥महातेजा हनुमान् मारुतात्मजः भूयः सीता प्रत्ययकारणात् प्रश्रितं वाक्यं अब्रवीत्॥

The powerful son of wind god , Hanuman again spoke humbly to inspire confidence in Sita.

वानरोऽहं महभागे दूतो रामस्य धीमतः।
रामानामांकितं चेदं पश्य देव्यंगुळीयकम्॥2||
प्रत्ययार्थं तवाssनीतं तेन दत्तं महात्मना।
समाश्वसिहि भद्रं ते क्षीण दुःखफला ह्यसि॥3||
इत्युक्त्वा प्रददौ तस्यै सीतायै वानरोत्तमः।
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्॥
भर्तारमिव संप्राप्ता जानकी मुदिताsभवत्॥4||

स॥ हे महाभागे ! अहं वानरः । धीमतः रामस्य दूतः। देवि पश्य च इदं रमनामांकितं अंगुळीयकं॥महात्मना तेन दत्तं तव प्रत्ययार्थं अनीतं समाश्वसि हि । (तव) दुःखफला क्षीणं असि । भद्रं ते॥वानरः इति उक्त्वा सीतायै तस्यै भर्तुः करविभूषणं प्रददौ ।सा जानकी तत् गृहीत्वा प्रेक्षमाणा भर्तारं संप्राप्ता इव मुदिता भवत्॥

'Oh Noble lady ! I am a Vanara. I am a messenger of learned Rama. Oh Divine lady ! See the ring with the name of Rama inscribed. This was given by him, the great soul, to get your trust. Oh Lady be calm. Your sorrows have ended. May the best things happen'. Saying this the Vanara gave the ornament that adorned her husband's hand to Sita. Sita too taking that ring and gazing at the same longingly became very happy as though she obtained her husband.

चारुतद्वदनं तस्या स्ताम्रशुक्लाय तेक्षणम्।
अशोभत विशालाक्ष्या राहुमुक्त इवोड्डुराट्॥5||
ततस्सा ह्रीमती बाला भर्तृसंदेशहर्षिता।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्॥6||

स॥तस्याः विशालाक्ष्याः चारु वदनं ताम्रशुक्लायतेक्षणं राहुमुक्त इवोड्डुराट् अशोभत ॥ततः सा बाला भर्तृसंदेश हर्षिता ह्रीमती परितुष्टा प्रियं कृत्वा महाकपिं प्रशशंस ॥

That wide eyed lady with reddish eyes shone like the moon freed from Rahu. Then that young lady Sita delighted by the message from her husband, blushed and felt happy. Praising the great Vanara for his actions, she pleased him with the following words .

विक्रांतस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम।
ये नेदं राक्षपदं त्वयैकेन प्रधर्षितम्॥7||
शतयोजनविस्तीर्णः सागरो मकरालयः।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥8||
न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ।
यस्य ते नास्ति संत्रासो रावणा न्नापि संभ्रमः॥9||

स॥ वानरोत्तमा एकेन येन त्वया इदं राक्षस पदं प्रदर्षितं त्वं विक्रांतः । त्वं समर्थः । त्वं प्राज्ञः ॥विक्रमश्लाघनीयेन सागरः मकरालयः शतयोजन विस्तीर्णः क्रमता गोष्पदीकृतः ॥वानरर्षभः यस्य ते रावणात् संत्रासः नास्ति संभ्रमः अपि त्वां प्राकृतं वानरं न मन्ये॥

' Oh Best of Vanaras ! Single-handedly by whom the Rakshasa abode has been assailed, that person being you , you are very brave. You are very capable. You are very knowledgeable. Your admirable prowess reduced the hundred Yojana wide ocean which is the abode of crocodiles to a calf's hoof mark. Oh Bull among Vanaras ! Being the one who has no fear or excitement of Ravana, I do not think you are an ordinary Vanara'.

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्।
यद्यसि प्रेषितस्तेन रामेण विदितात्मना॥10||
प्रेषयिष्यति दुर्दर्षो रामो न ह्य परीक्षितम्।
पराक्रम मविज्ञाय मत्सकाशं विशेषतः॥11||
दिष्ट्या च कुशली रामो धर्मात्मा सत्यसंगरः।
लक्ष्मणश्च महातेजा स्सुमित्रानंदवर्धनः॥12||

स॥ रामेन विदितात्मना तेन प्रेषितः असि यदि कपिश्रेष्ठ मया समभिभाषितुं अर्हसे ॥दुर्दर्षः रामः पराक्रमं अविज्ञाय अपरीक्षितम् न प्रेक्ष्यति विशेषतः मत् सकाशम् ॥दिष्ट्या रामः धर्मात्मः सत्यसंगरः कुशली । महातेजा सुमित्रानंदवर्धनः लक्ष्मणः च॥

Oh best among Vanaras, if you are sent by Rama, who realized self, it is proper form me to talk with you. Rama who is of formidable valor, will not send one specially to me without knowing or without testing their capabilities. Fortunately the righteous Rama, the follower of truth, is well. The glorious Lakshmana who is the pleasure of Sumitra too is well.

कुशली यदि काकुत्‍स्थः किं नु सागरमेखलां।
महीं दहति कोपेन युगांताग्नि रिवोत्थितः॥13||
अथवा शक्तिमंतौ तौ सुराणा मपि विग्रहे।
ममैव तु न दुःखानां अस्ति मन्ये विपर्ययः॥14||
कच्चिन्न व्यधितो रामः कच्चिन्न परितप्यते।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः॥15||

स॥ यदि काकुक्त्‍स्थः कुशली युगांताग्निः इव उत्थितं कोपेन सागरमेखलां महतीं किं न दहति॥अथवा तौ सुराणां अपि निग्रहे शक्तिमंतौ तु मम दुःखेनामेव विपर्ययः नास्ति मन्ये॥रामः न व्यधितः कच्चित्? नपरितप्यते कच्चित्? (बहुशः) पुरुषोत्तमः उत्तराणि कार्याणि कुरुते ॥

' If Kakutstha is well , why does he not burn this earth circled by ocean in his rage as if it is the end of the Yuga. Both being capable of holding even the Devas , why are they not coming for my rescue. May be my sorrows are not a disaster I think. Is Rama not depressed. Is he not suffering . Probably he is taking necessary steps ( for my rescue).

कच्चिन्न दीनः संभ्रांतः कार्येषु च न मुह्यति।
कच्चि त्पुरुषकार्याणि कुरुते नृपतेस्सुतः॥16||
द्विविधं त्रिपाधोपाय मुपाय मपि सेवते।
विजिगीषु स्सुहृत् कच्चिन् मित्रेषु च परंतप॥17||
कच्चि न्मित्राणि लभते मित्रैश्चाप्यभिगम्यते।
कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः॥18||

स॥ नृपतेः सुतः दीनः संभ्रांतः न कच्चित् । कार्येषु नमुह्यति । पुरुषकार्याणि कच्चित् कुरुते ( इति मन्ये)॥परंतपः द्विविधं उपायं त्रिविधोपायं अपि सेवते विजिगीषुः मित्रेषु सुहृत् कच्चित् ॥मित्राणि कच्चित् लभते। मित्रैः अपि अभिगम्यते । कल्याणमित्रश्च कच्चित् ।मित्रैश्च अपि पुरस्कृतः ॥

The king's son is probably not too depressed to attend to action ( for my rescue). May be he is attending to his duties. The terror of enemies , he who desires to be victorious must be following two types or may be three types of action. With friends he has a good team. Hope he is making friends. Friends also need him. Hope they are good friends. Hope he is honored by his friends.

कच्चि दाशास्ति देवानां प्रसादं पार्थिवात्मजः।
कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते॥19||
कच्चि न्नविगत स्नेहः प्रवासान्मयि राघवः।
कच्चि न्मां व्यसनात् अस्मान्मोक्षयिष्यति वानर॥20||
सुखानामुचितो नित्यं असुखानां अनूचितः।
दुःखमुत्तरमासाद्य कच्च् द्रामो न सीदति॥21||

स॥ पार्थिवात्मजः देवानां प्रसादं आशास्ति कच्चित् । पुरुषकारं च दैवं च प्रतिपद्यते॥राघवः प्रवासात् मयि विगतस्नेहः न कच्चित् ।हे वानर ! मां अस्मात् व्यसनात् (रामः) मोक्षयिष्यति कच्चित् ॥नित्यं सुखानां उचितः असुखानां अनौचितः राघवः दुःखं आसाद्य न सीदति कच्चित् ॥

Does the son of the king, Rama keep getting blessings of the Gods. Hope he follows the personal effort as well as divine support. Due to separation, is Raghava devoid of love. Oh Vanara! Hope he will liberate me from this misery. Hope Rama who deserves happiness and is not used to unhappiness , has not become depressed facing sorrows.

कौसल्याया स्तथा कच्चित् सुमित्रायाः तथैव च।
अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च॥22||
मन्निमित्तेन मानार्हः कच्चि च्छोकेन राघवः।
कच्चि न्नान्यमना रामः कच्चि न्मां तारयिष्यति॥23||
कच्चि दक्षौहिणीं भीमां भरतो भातृवत्सलः।
ध्वजिनीं मंत्रिर्गुप्तां प्रेषयिष्यति मत्कृते॥24||

स॥ कौसल्यायाः तथा सुमित्रायाः तथैव च भरत्स्य कुशलं अभीक्षणं श्रूयते कच्चित् ॥मानार्हः रामः मन्निमित्तेन शोकेन कच्चित् न अन्यमानः न कच्चित् । माम् कच्चित् तारयिष्यति ॥भात्रुवत्सलः भरतः मंत्रिभिः गुप्तां भीमां अक्षौहिणीं मत्कृते कच्चित् प्रेषयिष्यति ॥

Hope he is hearing the well-being of mother Kausalya, similarly mother Sumitra as well as that of Bharata. The respectable Raghava facing sorrow on my account hope has not become absent minded. Hope he will save me. Bharat devoted to his brother, will he send an army of one Akshhauni protected by ministers for me.

वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति।
मत्कृते हरिभिर्वीरै र्वृतो दंतानखायुधः॥25||
कच्चि च्च लक्ष्मण श्शूरः सुमित्रानंदवर्धनः।
अस्त्रविच्चरजालेन राक्षसान् विधमिष्यति॥26||
रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे।
द्रक्ष्यां अल्पेन कालेन रावणं ससुहृज्जनम्॥27||

स॥ वानराधिपः श्रीमान् सुग्रीवः मत्कृते दंतानखायुधः हरिभीः वृतः कच्चित् एष्यति ॥शूरः सुमित्रानंदवर्धनः लक्ष्मणः अस्त्रविच्चरजालेन कच्चित् राक्षसान् विधमिष्यति ॥ज्वलता रौद्रेण अस्त्रेण रणे ससुहृत् जनं निहतं रावणं अल्पेन कालेन द्रक्ष्यामि कच्चित् ॥

The king of Vanaras surrounded by valiant Vanaras who use teeth as well as nails as weapons, will he reach here? The valiant Lakshmana, son of Sumitra , expert in using weapons, will he kill the Rakshasas with a flow of arrows. When can I see Ravana and his friends slain in a fiery battle soon ?

कच्चिन्न तद्देम समानवर्णं तस्याननं पद्मसमानगंधि।
मया विना शुष्यति शोकदीनं जलक्षये पद्म मिवातपेन॥28||
धर्मापदेशात् त्यजतश्च राज्यं मांचाप्यरण्यं नयतः पदातिम्।
नासीद्व्यधा यस्य न भीर्नशोकः कच्चिच्च धैर्यं हृदये करोति॥29||
न चास्य मात न पिता नान्यः स्नेहा द्विशिष्ठोऽस्ति मया समो वा।
ताव त्त्वहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य॥30||

स॥तस्य हेम समानवर्णं पद्मसमानगंधि तत् आननम् मया विना शोकदीनं जलक्षये आतपेन पद्मं इव न शुष्यति कच्चित् ॥धर्मापदेशात् राज्यं त्यजतः मां चापि पदातिम् अरण्यं नयतः यस्य व्यथा नासीत् न भीः न शोकः सः हृदये धैर्यं करोति कच्चित् ॥अस्य स्नेहात् मया समो वा विशिष्ठः माता न पिता न अन्यः नास्ति । दूतः प्रियस्य प्रवृतिम् यावत् शृणुयं तावत्तु अहं जिजीविशेषयं ॥

'Hope Rama who has face like that of a moon with its golden complexion and lotus fragrance has not withered away with grief like the lotus without water in scorching heat. Rama who has given up kingdom for the sake of truthfulness and righteous conduct , led me to the forest on foot without showing agony , fear or sorrow , has retained the courage of his heart. His love for me is equal or more than the love of his mother or father. It is not otherwise. O messenger I wish to survive until I see news from my husband'.

इतीव देवी वचनं महार्थं तं वानरेंद्रं मधुरार्थ मुक्त्वा।
श्रोतुं पुनस्तस्य वचोsभि रामं रामार्थयुक्तं विरराम रामा॥31||
सीताया वचनं श्रुत्वा मारुति र्भीमविक्रमः।
शिरस्यंजलि माधाय वाक्यमुत्तरमब्रवीत्॥32||

स॥ देवी तं वानरेंद्रं महार्थं मधुरार्थं वचनम् उक्त्वा तस्य अभिरामं रामर्थयुक्तं वचः पुनः श्रोतुं विरराम॥मारुतिः भीमविक्रमः सीतायाः वचनं श्रुत्वा शिरस्यंजलिं आधाय उत्तरं वाक्यं अब्रवीत् ॥

The divine lady thus having told the Vanara in meaningful and sweet words about her beloved Rama, then remained silent waiting to hear again more words about Rama. Maruti the fierce warrior, hearing the words of Sita , bowing his head in obeisance said the following in his reply.

न त्वा मिहस्थां जानीते रामः कमल लोचने।
तेन त्वां नानय त्याशु शचीमिव पुरंदरः॥33||
श्रुत्वैव तु वचो मह्यं क्षिप्र मेष्यति राघवः।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम्॥34||
विष्टंभयित्वा बाणौघै रक्षोभ्यं वरुणालयम्।
करिष्यति पुरीं लंकां काकुत्‍स्थः शांतराक्षसाम्॥35||

स॥ कमललोचने त्वां इहस्थां रामः न जानीते । तेन पुरंदरः शचीमिव त्वां आशु न आनयति ॥ मह्यं वचः श्रुत्वैव तु राघवः हर्यक्षुगणसंकुलां महतीं चमूं प्रकर्षन् क्षिप्रं एष्यति॥ काकुत्‍स्थः अक्षोभ्यं वरुणालयं बाणौघैः विष्टंभयित्वा लंकां पुरीं शांतराक्षसां करिष्यति ॥

Oh Lady with eyes like lotus petals ! Rama does not know that you are here. So he has not brought you back immediately like Indra got back Sachi. Hearing my words Raghava will immediately come here leading a huge army of the troops of Vanaras and bears. The Kakutstha making still the ocean by a torrent of arrows, will rid the city of Lanka of all Rakshasas.

तत्र यद्यंतरा मृत्यु र्यदि देवा स्सहासुराः।
स्थास्यंति पथि रामस्य स तानपि वधिष्यति॥36||
तवादर्शनजे नार्ये शोकेन स परिप्लुतः।
न शर्म लभते राम स्सिंहार्दित इव द्विपः॥37||

स॥ तत्र रामस्य पथि अंतरा मृत्युः सहासुराः देवाः स्थास्यंति यदि सः तान् अपि वधिष्यति ॥आर्य सः राघवः तव अदर्शनजेन शोकेन परिप्लुतः सिंहार्दितः द्विपः इव शर्म न लभते॥

There if death or anybody else comes in the way to obstruct he will destroy them. Oh Gentle lady ! Not able to see you, immersed in sorrow he is unhappy like an elephant tormented by a lion.

मलयेन च विंध्येन मेरुणा मंदरेण च।
दर्दुरेण च ते देवि शपे मूलफलेन च॥38||
यथा सु नयनं वल्गु बिंबोष्ठं चारुकुंडलम्।
मुखं द्रक्ष्यसि रामस्य पूर्णचंद्र मिवोदितम्॥39||

स॥ देवि मलयेन च विंध्येन मेरुणा दर्दुरेण मूलफलेन ते शपे । यथा सुनयनं वल्गु बिंबोष्ठं चारुकुण्डलं उदितं पूर्णचंद्रं इव रामस्य मुखं द्रक्ष्यसि॥

'Oh Sita I swear in the name of Vindhyas, the Meru mountain, Dardura and by the roots and fruits as well that you will soon see Rama with beautiful eyes red lips like Bimba fruit, with lovely ear rings and with a countenance resembling full moon'.

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ।
शतक्रतु मिवासीनं नागराजस्य मूर्थनि॥40||
न मांसं राघवोभुज्ञ्के नचाsपि मधुसेवते।
वन्यं सुविहितं नित्यं भक्तमश्नाति पंचमम्॥41||
नैवदंशा न्न मशकान्नकीटा न्नसरीसृपान्।
राघवोsपनयेत् गात्रात् त्वद्गते नांतरात्मना॥42||

स॥वैदेहि प्रस्रवेण गिरौ रामं नागराजस्य मूर्धनि आसीनं शतक्रतुं व क्षिप्रं द्रक्ष्यसि॥राघवः न मांसं भुज्ञ्के । मधु अपि न सेवते । नित्यं पंचमं सुविहितं वन्यं भुक्तं अश्नाति ॥ राघवः त्वद्गतेन अंतरात्मना गात्रात् दंशान् नैव अपनयेत् ंअसकान् न कीटान् न सरीसृपान् न ॥

'Oh Vaidehi ! You will see Rama seated on the back of an elephant on the mount Prasaravana, like the Indra who performed hundred Kratus. Raghava does not eat meat. Does not drink too. He is always eating only one fifth of the food as prescribed for ascetics. After you left always thinking about you, Raghava no longer drives away flies or mosquitos nor insects or even serpents from his body.

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः।
नान्य च्चिंतयते किंचि त्स तु कामवशं गतः॥43||
अनिद्र स्सततं राम स्सुप्तोऽपि च नरोत्तमः।
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते॥44||
दृष्ट्वा फलं वा पुष्पं वा यद्वा‍ऽन्य त्सुमनोहरम्।
बहुशो हा प्रिये त्येवं श्वसं स्त्वां अभिभाषते॥45||

स॥ रामः नित्यं ध्यानपरः नित्यं शोकपरायणः कामवशं गतः अन्यत् न चिंतयते ॥रामः सततं अनिद्रः नरोत्तमः सुप्तो अपि सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते ॥फलं वा पुष्पं वा यत् वा सुमनोहरं अन्यत् दृष्ट्वा श्वसन् हा प्त्रियेत्येवं त्वां बहुशः अभिभाषते॥

Always immersed in sorrow, Rama is always meditating. Absorbed in love for you, he does not think of anything else. Rama is never sleeping. Even if he sleeps he will be saying Sita in sweet voice in his sleep. Whenever he sees fruit or flower, deeply sighing he calls out again and again saying 'Oh Dear oh Dear'.

स देवि नित्यं परितप्यमान स्त्वां एव सीते त्यभिभाषमाणः।
धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः॥46||
सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका।
शरम्मखे सांबुदशेष चंद्रा निशेव वैदेहसुता बभूव॥47||

स॥ देवी महात्मा सः राजसुतः नित्यं परितप्यमानः सीतेति त्वामेव अभिभाषमानः धृतवर्तः तव लाभाय कृतप्रयत्नः । रामस्य शोकेन समानशोका रामसंकीर्तन वीत शोका सा वैदेह सुता शरन् मुखे साम्बुदशेषचंद्रा निशेव बभूव॥

Oh Devi the great soul and the prince always burning away, wanting to talk about you. Firm about his decision, he makes efforts to secure you only. Though equally sad because of his sorrow, that Vaidehi , with her sorrow mitigated by hearing about Rama, appeared like the moon on a night at the advent of autumn looking partly muffled by clouds and partly bright.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षट्र्त्रिंशस्सर्गः ||

Thus ends Sarga thirty six of Sundarakanda in Ramayana the first ever poem composed by the first poet sage Valmiki.

||om tat sat||